मम्मटाचार्येण प्रतिपादितं काव्यहेतुं
मम्मटाचार्येण प्रतिपादितं काव्यहेतुं शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् | काव्यज्ञ शिक्षयाभ्यास इति हेतुस्तदुद्भवे ।। काव्यरचनायाः शक्तिः लोकशास्त्रकाव्यादीनाम् अनुशीलनेन निरीक्षणेन च प्राप्तां निपुणता अथ च काव्यज्ञेभ्यः शिक्षां प्राप्य अभ्यसनम् इमानि त्रीणि समुदितरूपेण तस्य काव्यस्य उद्भवे कारणानि सन्ति । आचार्य मम्मटात् पूर्वमपि काव्यहेतुविषयिकी चर्चा प्रचलिता आसीत् । केषाञ्चन प्रमुखाणाम् आचार्याणां विचाराः अधोलिखिताः सन्ति | भामहः काव्यं तु जायते जातु कस्यचित् प्रतिभावतः । दण्डी नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलम् । अमन्दाश्चाभियोगोऽस्याःकारणं काव्यसम्पदः ॥ रुद्रट : त्रितयमिदं व्याप्रियते शक्तिर्व्युत्पत्तिरभ्यासः । आचार्यमम्मटेन स्वसम्मते काव्यहेतुविवेचने प्राचीनानां मतानां सारः गृहीतः । तेनानुसारेण शक्तिः निपुणता अभ्यासश्च एते त्रयः समुद्रित रूपेण काव्यहेतवः सन्ति। शक्ति :- एषा शक्ति: कवित्वस्य मूलकारणं वर्तते। संस्कारविशेष अयं जनसामान्येभ्यः विलक्षणोऽस्ति | इदं काव्यस्य न केवलं कारणमेव अपितु अस्यैव चमत्कारेण किमपि काव्यं सहृदयना सहृदयानाम् आदरं प्राप्