मम्मटाचार्येण प्रतिपादितं काव्यहेतुं

 मम्मटाचार्येण प्रतिपादितं काव्यहेतुं 

 शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् |

काव्यज्ञ शिक्षयाभ्यास इति हेतुस्तदुद्भवे ।।

काव्यरचनायाः शक्तिः लोकशास्त्रकाव्यादीनाम् अनुशीलनेन निरीक्षणेन च प्राप्तां निपुणता अथ च काव्यज्ञेभ्यः शिक्षां प्राप्य अभ्यसनम् इमानि त्रीणि समुदितरूपेण तस्य काव्यस्य उद्भवे कारणानि सन्ति ।

आचार्य मम्मटात् पूर्वमपि काव्यहेतुविषयिकी चर्चा प्रचलिता आसीत् । केषाञ्चन प्रमुखाणाम् आचार्याणां विचाराः अधोलिखिताः सन्ति |

भामहः काव्यं तु जायते जातु कस्यचित् प्रतिभावतः ।

दण्डी नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलम् ।

अमन्दाश्चाभियोगोऽस्याःकारणं काव्यसम्पदः ॥ 

रुद्रट: त्रितयमिदं व्याप्रियते शक्तिर्व्युत्पत्तिरभ्यासः ।

आचार्यमम्मटेन स्वसम्मते काव्यहेतुविवेचने प्राचीनानां मतानां सारः गृहीतः ।

तेनानुसारेण शक्तिः निपुणता अभ्यासश्च एते त्रयः समुद्रित रूपेण काव्यहेतवः सन्ति। 

शक्ति:- एषा शक्ति: कवित्वस्य मूलकारणं वर्तते। संस्कारविशेष अयं जनसामान्येभ्यः विलक्षणोऽस्ति | इदं काव्यस्य न केवलं कारणमेव अपितु अस्यैव चमत्कारेण किमपि काव्यं सहृदयना सहृदयानाम् आदरं प्राप्नोति ।

निपुणता:- लोक शास्त्रकाव्यादीनाम् अनुशीलनेन प्राप्ता निपुणताऽपि काव्यस्य एकम् अन्यत् कारणमस्ति । चराचर जगत् व्यवहारस्य निरीक्षणं पिङ्गलादीनाम् आचार्याणां छन्दः शास्त्रस्य, पाणिनि-आदीनाम् आचार्याणां व्याकरणग्रन्थानां, कोशग्रन्थानां, नृत्यगीतादिचतुः षष्टिकलानां, मनुस्मृतीत्यादिधर्मशास्त्राणां, अर्थशास्त्रस्य, कामशास्त्रस्य, गजतुरग- सम्बन्धित- ग्रन्थानां, धनुर्वेदस्य, आयुर्वेदस्य, गान्धर्ववेदादीनां ग्रन्थानाम् अनुशीलनेन प्राप्तं विविधप्रकारस्य ज्ञानम् अथ च वाल्मीकि- व्यासादीनां महाकवीनां काव्येभ्यः रसादिविषयक संस्कारदृढ़ता काव्यशैलीबोध भावं च यदा प्राप्यते कविना । तदैव सः उत्कृष्टं काव्यं कर्तुं शक्नोति ।

अभ्यासः- काव्यज्ञेभ्यः शिक्षां प्राप्य अभ्यसनमपि काव्योत्कर्षस्य हेतुरस्ति । ये काव्यं कर्तुं जानन्ति समीक्षां कर्तुं वा शक्नुवन्ति । तेभ्यः सहृदयेभ्यः शिक्षां निर्देशं वा प्राप्य प्रतिभाशालिना कविना पुनः पुनः कृता शब्दादीनां सुन्दरयोजना एव अभ्यासः । 

एते त्रयः दण्ड चक्रादि न्यायेन काव्यस्य हेतवः वर्तन्ते । संभवतः काव्यस्योत्पत्तिः एतेषु एकेन हेतुना अपि भवेत् परं न तत् काव्यम् उत्कृष्टं भविष्यति । उत्कृष्टकाव्यनिर्माणाय तु एते त्रयः एव अनिवार्येण भवितुम् अर्हन्ति । 

Comments